|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.2. अध्यायः 002
Mahabharata - Drona Parva - Chapter Topics
कर्णेन पाण्डवोच्छेदनपूर्वकं दुर्योधनाय राज्यदानं प्रतिज्ञाय युद्धायाभियानम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-2-0x(4263)(44703)
हतं भीष्ममथाधिरथिर्विदित्वा
भिन्नां नावं वारिधावत्यगाधे।
सोदर्यवद्व्यसनात्सूतपुत्रः
संतारयिष्यंस्तव पुत्रस्य सेनाम्॥ 7-2-1(44704)
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं
निपातितं शान्तनवं महारथम्।
अथोपयायात्सहसारिकर्षणो
धनुर्धराणां प्रवरस्तदा नृप॥ 7-2-2(44705)
हते तु रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून्।
पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः सन्तारयिष्यंस्तव पुत्रस्य सेनाम्॥ 7-2-3(44706)
सम्मृज्य दिव्यं धनुराततज्यं स रामदत्तं रिपुसङ्घहन्ता।
बाणांश्च कालानलवायुकल्पानुल्लालयन्वाक्यमिदं बभाषे। 7-2-4(44707)
कर्ण उवाच।
यस्मिन्धृतिर्बुद्धिपराक्रमौजः सत्यं स्मृतिर्वीरगुणाश्च सर्वे।
अस्त्राणि दिव्यान्यथ संनतिह्रीः प्रिया च वागनसूया च भीष्मे॥ 7-2-4x(4264)
सदा कृतज्ञे द्विजशत्रुघातके सनातनं चन्द्रमसीव लक्ष्मीः।
स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव च सर्ववीरान्॥ 7-2-5(44708)
नेह ध्रुवं किङ्चन जातु विद्यते। लोके ह्यस्मिन्कर्मणोऽनित्ययोगात्।
सूर्योदये को हि विमुक्तसङ्शयो भावं कुर्वीतार्यमहाव्रते हते॥ 7-2-6(44709)
वसुप्रभावे वसुवीर्यसंभवे गते वसूनेव वसुंधराधिपे।
वसूनि पुत्रांश्च वसुंधरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम्॥ 7-2-7(44710)
सञ्जय उवाच। 7-1-8x(4265)
महाप्रभावे वरदे निपातिते लोकेश्वरे शास्तरि चामितौजसि।
पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन्॥ 7-2-8(44711)
इदं च राधेयवचो निशम्य सुताश्च राजंस्तव सैनिकाश्च ह।
परस्परं चुक्रुशुरार्तिजं मुहुस्तदाश्रु नेत्रैर्मुमुचुश्च शब्दवत्॥ 7-2-9(44712)
प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः।
अथाब्रवीद्धर्षकरं तदा वचो रथर्पभान्सर्वमहारथर्षभः॥ 7-2-10(44713)
जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये।
भवत्सु तिष्ठत्स्विह पातितो मृधे निरिप्रकाशः कुरुपुङ्गवः कथम्॥ 7-2-11(44714)
निपातिते शान्तनवे महारथे दिवाकरे भूतलमास्थिते यथा।
न पार्थिवाः सोढुमलं धनंजयं गिरिप्रवोढारमिवानिलं द्रुमाः॥ 7-2-12(44715)
हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै।
मर्या कुख्णां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा॥ 7-2-13(44716)
समाहिते चात्मनि भारमीदृशं जगत्तथाऽनित्यमिदं च लक्षये।
निपातितं चाहवशौण्डमाहखे कथं नु कुर्यामहमीदृशे भयम्॥ 7-2-14(44717)
अहं तु तान्कुरुवृषभानजिह्मगैः प्रवेशयन्यमसदनं चरन्रणे।
यशः परं जगति विभाव्य वर्तिता परैर्हतो भुवि शयिताथवा पुनः॥ 7-2-15(44718)
युधिष्ठिरो धृतिमतिसत्यसत्ववान् वृकोदरो गजशततुल्यविक्रमः।
तथार्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि॥ 7-2-16(44719)
यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः।
न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते भृत्युमुखादिवासुभृत्॥ 7-2-17(44720)
तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः।
मनश्च मे शत्रुनिवारणे ध्रुं स्वरक्षणे चाचलवद्व्यवस्थितम्॥ 7-2-18(44721)
एवं चैषां बाधमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत।
मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात्स मित्रम्॥ 7-2-19(44722)
कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम्।
सर्वान्सङ्ख्ये शत्रुशङ्घान्हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये॥ 7-2-20(44723)
संप्राक्रुष्टे रुदितस्त्रीकुमारे पराहते पौरुषे धार्तराष्ट्रे।
मया कृत्यमिति जानामि सूत तस्माद्राज्ञस्त्वद्य शत्रून्विजेष्ये॥ 7-2-21(44724)
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन्।
सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य दास्याम्यहं धर्मxxxxxxxx 7-2-22(44725)
निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि।
शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चाग्निविपाहिकल्पान्॥ 7-2-23(44726)
उपासङ्गान्पोडश योजयन्तु धनूम्पि दिव्यानि तथाऽऽहरन्तु।
असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रनालम्॥ 7-2-24(44727)
इमां रौक्मीं नागकक्ष्यां विचित्रां ध्वजं जैत्रं दिव्यमिन्दीवराङ्कम्।
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयन्तु चित्रां मालां चारुबद्धां सलाजाम्॥ 7-2-25(44728)
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान् पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः।
तप्तैर्भाण्डैः काञ्चनैरभ्युपेतान् शीघ्राञ्शीघ्रं सूतपुत्रानयस्व॥ 7-2-26(44729)
रथं चाग्र्यं हेममालावनद्धं रत्नैश्चित्रं सूर्यचन्द्रप्रकाशैः।
द्रव्यैर्युक्तं सम्प्रहारोपपन्नैर्बाहैर्युक्तं तूर्णमावर्तयस्व॥ 7-2-27(44730)
चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः सन्नहनोपपन्नाः।
तूणांश्च पूर्णान्महतः शराणामासाद्य गात्रावरणानि चैव॥ 7-2-28(44731)
प्रायात्रिकं चानयताशु सर्वं पूर्णं कान्त्या वीरकांस्यां च हैमम्।
आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः॥ 7-2-29(44732)
प्रयाहि मूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च।
तान्वा हनिष्यामि समेत्य सङ्ख्ये भीष्मो यथैष्यामि हतो द्विषद्भिः॥ 7-2-30(44733)
यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च।
वासुदेवः सात्यकिः सृंजयाश्च मन्ये बलं तदजय्यं महीपैः॥ 7-2-31(44734)
तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे किरीटिनम्।
तथापि हन्तास्मि समेत्य सङ्ख्ये यास्यामि वा भीष्ममुखो यमाय॥ 7-2-32(44735)
न त्वेवाहं न गमिष्यामि तेषां मध्ये शराणां तत्र चाहं ब्रवीमि।
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः॥ 7-2-33(44736)
सञ्जय उवाच। 7-2-34x(4266)
समृद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम्।
पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय॥ 7-2-34(44737)
सम्पूज्यमानः कुरुभिर्महात्मा रथर्षभो देवगणैर्यथेन्द्रः।
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य॥ 7-2-35(44738)
वरूथिना महता सध्वजेन सुवर्णमुक्तामणिरत्नमालिना।
सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः॥ 7-2-36(44739)
हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः।
स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिवास्थितः॥ ॥ 7-2-37(44740)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्वितीयोऽध्यायः॥ 2 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-2-1 5-2- 5-2- 5-2- 5-2- 5-2- 5-2- 5-2- 5-2- 5-2- 5-2- 5-2-


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|